पृष्ठम्:मनोहरकाव्यमाला.pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१६) आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् । नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव ॥ १३१ ॥ यदि ते गमने बुद्धिः कृता पितुरपेक्षया । तां तथा रुदती रामोऽरुदन्वचनमब्रवीत् ॥ १३२ ।। जीवन्त्यां हि स्त्रियां भर्ता दैवतं प्रभुरेव च । भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ १३३ ।। न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता। भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ॥ १३ ॥ भवतीमनुवर्तेत स हि धर्मरतः सदा । यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥ १३५ ॥ श्रमं नावाप्नुयात्किचिदप्रमत्ता तथा कुरु । दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ॥ १३६ ॥ राज्ञो वृद्धस्य सततं हितं चर समाहिता। व्रतोपवासनिरता या नारी परमोत्तमा ॥१३७ ॥ भतारं नानुवर्तेत सा च पापगतिर्भवेत् । भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् ।। १३८ ॥ अपि या निर्नमस्कारा निवृत्ता देवपूजनात् । शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ॥ १३६ ॥ एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः । अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥ १४० ॥ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः। एवं कालं प्रतीक्षस्व ममागमनकाक्षिणी ॥ ११ ॥ नियता नियताहारा भर्तुशुश्रूषणे रता। प्राप्स्यसे परमं कामं मयि पर्यागते सति । यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ १४२॥