पृष्ठम्:मनोहरकाव्यमाला.pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

। ( २० ) आशीर्वादः। एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा। कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ॥ १॥ गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक विनिवर्तयितुं वीर नूनं कालो दुरत्ययः ॥२॥ पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा। प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥३॥ पितुरानृण्यतां प्राप्त स्वपिध्ये परमं सुखम् । कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ॥४॥ यत्त्वां संचोदयति मे वच भाविद्धय राघव । गच्छेदानी महावाहो क्षेमेण पुनरागतः ॥ ५॥ सा विनीय तमायासमुमस्पृश्य जलं शुचि । चकार माता रामस्य मङ्गलानि मनस्विनी ॥६॥ न शक्यते वारयितुं गच्छेदानी रघूत्तम । शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे ॥ ७॥ यं पालयसि धर्म त्वं प्रीत्या च नियमेन च । स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥८॥ येभ्यः प्रणमसे पुत्र देवेन्वायतनेषु च । ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ ६॥ यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता। तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥ १० ॥ पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा । सत्येन च महाबाहो चिरं जीवाभिरक्षितः ।। ११ ।। समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः ।। १२॥