पृष्ठम्:मनोहरकाव्यमाला.pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२१) पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम । स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः॥१३॥ स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा । लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ॥ १४ ॥ ऋतवः षट् च ते सर्वे मासाः संवत्सराक्षपाः । दिनानि च मुहूतांश्च स्वस्ति कुर्वन्तु ते सदा ॥ १५ ॥ श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः। स्कन्दश्च भगवान्देवः सोमश्व सबृहस्पतिः॥ १६ ॥ सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः । ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः ॥१७॥ स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः। शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥ १८ ॥ द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः । नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः॥ १६ ॥ अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् । ऋतवश्वापि षट् चान्ये मासाः संवत्सरास्तथा ॥ २० ॥ कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते । महावनेऽपि चरतो मुनिवेशस्य धीमतः ॥ २१ ॥ तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा। राक्षसानां पिशाचानां रौद्राणं करकर्मणाम् ॥ २२ ॥ मन्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम् । प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ॥ २३ ॥ सरीसृपाश्च कीटाश्च मा भूवन्गहने तव । महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ॥ २४ ॥ महिषाः ऋङ्गियो रौद्रा न ते द्रुह्यन्तु पुत्रक । मांसभोजना रौद्रा ये चान्ये सर्वजातयः ॥ २४ ॥