पृष्ठम्:मनोहरकाव्यमाला.pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४ ) इतीव चाक्षुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि । प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे ॥ ५० ॥ तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः । जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया ॥५१॥ पतिव्रता सीता। प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् । प्रहृष्टजनसंपूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ १॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम् । । अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ २॥ तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् । तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ ३ ॥ विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् । आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥ ४॥ अद्य वार्हस्पतः श्रीमान्युक्तः पुष्येण राघव । प्रोच्यते ब्राह्मणैः प्राज्ञः केन त्वमसि दुर्मनाः॥५॥ न ते शतशलाकेन जलफेननिभेन च । आवृतं वदनं वल्गुच्छत्रेणाभिविराजते ॥६॥ व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ॥ ७॥ चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ ७॥ वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ । स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः ।।८।।