पृष्ठम्:मनोहरकाव्यमाला.pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २६ ) अहं ते नानुवक्तव्यो विशेषेण कदाचन । अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २२ ॥ तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् । स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ २३ ॥ अहं चापि प्रतिकज्ञां तां गुरोः समनुपालयन् । वनमद्यैव यास्यामि स्थिरीभव मनस्विनि |॥ २४ ॥ याते च मयि कल्याणि वनं मुनिनिषेवितम् । व्रतोपवासपरया भवितव्य त्वयानघे ॥ २५ ॥ कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि । वन्दितव्यो दशरथः पिता मम जनेश्वरः ॥ २६ ॥ माता च मम कौसल्या वृद्धा संतापकर्शिता । धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति ॥ २७ ॥ वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः। स्नेहप्रणयसंभोगैः समा हिमम मातरः ॥ २८ ॥ भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः । त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ २६ ॥ विप्रियं च न कर्तव्यं भरतस्य कदाचन । स हि राजा च वैदेहि देशस्य च कुलस्य च ॥ ३० ॥ आराधिता हि शीलेन प्रयत्नैश्चोपसविताः । राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ ३१ ।। औरस्यानपि पुत्रान्हि त्यजन्त्यहितकारिणः । समर्थान्संप्रगृहन्ति जनानपि नराधिपाः ॥ ३२ ॥ सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी। भरतस्य रता धर्म सत्यवतपरायणा ॥ ३३ ॥ अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिव भामिनि ।