पृष्ठम्:मनोहरकाव्यमाला.pdf/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७ ) यथा व्यालीकं कुरुषे न कस्यचित् तथा त्वया कार्यमिदं वचो मम ॥ ३४॥ एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी। प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ ३५ ॥ किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् । त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम ॥ ३६ ॥ वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप । अनर्हमयशस्यं च न श्रोतव्यं त्वरितम् ॥ ३७ ।। आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा । स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ ३८॥ भर्तुर्भाग्यं तु नायेका प्राप्नोति पुरुषर्षभ । अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ ३६॥ न पिता नात्मजो वात्मा न माता न सखीजनः । इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥४०॥ यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव । अग्रतस्ते गमिष्यामि मृदन्ती कुशकण्टकान् ॥ ४१॥ ईर्ष्यां रोषं बहिष्कृत्य भुक्तशेषमिवोदकम् । नय मां वीर विनब्धः पापं मयि न विद्यते ॥ ४२ ॥ प्रासादाग्रे विमानैर्वा वैहायसगतेन वा । सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥४३॥ अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् । नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया ॥४४॥ अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् । नानामृगगणाकोणे शार्दूलगणसेवितम् ॥ ४५ ॥ सुखं वने निवत्स्यामि यथैव भवने पितुः । अचिन्तयन्ती त्रील्लोकांश्चिन्तयन्ती पतिव्रतम् ॥ ४६॥