पृष्ठम्:मनोहरकाव्यमाला.pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२८ ) शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी । सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ ४७ ॥ त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् । अन्यस्यापि जनस्येह किं पुनर्मम मानद ॥ ४ ॥ साहं त्वया गमिष्यामि वनमद्य न संशयः । नाहं शक्या महाभाग निवर्तयितुमुद्यता ॥ ४६॥ फलमूलाशना नित्यं भविष्यामि न संशयः । न ते दुःखं करिष्यामि निवसन्ती त्वया सदा ॥ ५० ॥ अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि । इच्छामि परतः शैलान्पल्बलानि सरांसि च ॥ ५१ ॥ द्रष्टुं सर्वत्र निर्मीता त्वया नाथेन धीमता । हंसकारण्डवाकीर्णाः पद्मिनी साधुपुष्पिताः ॥ ५२ ॥ इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता । अभिषेकं करिष्यामि तासु नित्यमनुव्रता ।। ५३ ।। सह त्वया विशालाक्ष रंस्ये परमनन्दिनी । एवं वर्षसहस्राणि शतं वापि त्वया सह ॥ ५४ ।। व्यतिकर्म न वेत्स्यामि स्वर्गोऽपि हि न मे मतः । स्वर्गेऽपि च विना वासो भविता यदि राघव ॥ त्वया विना नरव्याघ्र नाहं तदपि रोचये ॥ ५५ ॥ अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् । वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संमता ॥ ५६ ॥ अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् ।