पृष्ठम्:मनोहरकाव्यमाला.pdf/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २६ ) नयस्व मां साधु कुरुष्व याचनां नातो मया ते गुरुता भविष्यति ॥ ५७ ॥ तथा ब्रुवाणामपि धर्मवत्सलां न च स्म सीतां नृवरो निनीषति । उवाच चैनां बहु सन्निवर्तने वने निवासस्य च दुःखितां प्रति ॥ ५ ॥ स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ ५६ ॥ सान्त्वयित्वा ततस्तां तु वाष्पदूषितलोचनाम् । निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ ६० ॥ सीते महाकुलीनासि धर्मे च निरता सदा । इहाचरस्व धर्म त्वं यथा मे मनसः सुखम् ॥ ६१ ।। सीते यथा त्वां वक्ष्यामि तथा कार्य त्वयावले । वने दोषा हि बहवो वसतस्तान्निबोध मे ॥ २ ॥ सीते विमुच्यतामेषा वनवासकृता मतिः । बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ६३ ॥ हितबुद्धया खलु वचो मयैतदभिधीयते । सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ ६४ ॥ गिरिनिर्झरसंभूता गिरिनिर्दरिवासिनाम् । सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ ६ ॥ क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः। दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥ ६६ ॥ सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः। मतैरपि गनित्यमतो दुःखतरं वनम् ॥ ६७ ॥ लताकण्टकसंकीर्णाः ककवाकूपनादिताः। निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम् ॥ ६॥