पृष्ठम्:मनोहरकाव्यमाला.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३ ) एवमुक्ता तु सा चिन्ता मैथिली समुपागता। स्नापयन्तीव गामुष्णैरश्रुभिनयनच्युतैः ॥ १०७ ॥ चिन्तयन्ती तदा तां तु निवर्तयितुमात्मवान् । क्रोधाविष्टां तु वैदेही काकुत्स्थो वह्नसान्त्वयत् ।। १०० ॥ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा । वनवासनिमित्तार्थ भारमिदमब्रवीत् ॥ १०६ ॥ सा तमुत्तमसंविना सीता विपुलवक्षसम् । प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ ११०॥ किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ १११ ॥ अनृतं वत लोकोऽयमज्ञानाद्यदि वक्ष्यति । तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ ११२ ॥ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते । यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ।। ११३ ॥ द्युमत्लेनसुतं वीरं सत्यवन्तमनुव्रताम् । सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ११४॥ न त्वहं मनसा त्वन्यं द्रष्टास्मि त्वदृतेऽनघ । त्वया राघव गच्छेयं यथान्या कुलपसिनी ॥ ११५ ॥ स्वयं तु भार्या कौमारी चिरमध्युषितां सतीम् । शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ ११६ ॥ यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुध्यसे । त्वं तस्य भव वश्यश्च विधेयश्च सदानघ ॥ ११७॥ स मामनादाय वनं न त्वं प्रस्थितुर्महसि । तपो वा यदि वारण्यं स्वर्गो वा स्यात्त्वया सह ॥ १८ ॥ न च मे भविता तत्र कश्चित्पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ ११ ॥