पृष्ठम्:मनोहरकाव्यमाला.pdf/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३५ ) तत्सितामलचन्द्राभं मुखमायतलोचनम् । पर्यशुष्यत वाष्पेण जलोद्धमिवाम्बुजम् ॥ १३३ ॥ तां परिष्वज्य वाहुभ्यां विसंज्ञामिव दु:खिताम् । उवाच वचनं रामः परिविश्वासयंस्तदा ॥ १३४॥ न देवि तव दुःखेन स्वर्गमप्यभिरोचये । नहि मेऽस्ति भयं किंचित्स्वयंभोरिव सर्वतः॥ १३५ ॥ तव सर्वमभिप्रायमविज्ञाय शुभानने । वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ १३६ ।। यत्सृष्टासि मया साध वनवासाय मैथिली। न विहातुं मया शक्या प्रीतिरात्मवता यथा ॥१३७ ।। धर्मस्तु गजनासोरु सद्भिराचरितः पुरा । तं चाहमनुवर्तिष्ये यथा सूर्य सुवर्चला ॥ १३८ ॥ न खल्वहं न गच्छेयं वनं जनकनन्दिनि । वचनं तनयति मां पितुः सत्योपहितम् ॥ १३६ ॥ एष धर्मश्च सुश्रोणि पितुर्मातुश्च वश्यता । आज्ञां चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ १४० ॥ अस्वाधीनं कथं देवं प्रकारैरभिराध्यते । स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ।। १४१ ।। यत्र त्रयं त्रयो लोकाः पवित्रं तत्सम भुवि । नान्यदस्ति शुभापा तेनेदमभिराध्यते ॥ १४२॥ न सत्यं दानमानौ वा यो वाप्याप्तदक्षिणः । तथा वलकराः सीते यथा सेवा पितुर्मता ॥ १४३॥ स्वर्गों घनं वा धान्यं वा विद्या पुत्राः सुखानि च । गुरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम् ॥ १४४ ॥ देवगन्धर्वगोलोकान्ब्रह्मलोकांस्तथापरान् । प्राप्नुवन्ति महात्मानो मातापितपरायणाः ।। १४५ ।।