पृष्ठम्:मनोहरकाव्यमाला.pdf/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६ ) स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः । तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ॥ १४६ ॥ मम सन्ना मतिः सीते नेतुं त्वां दण्डकावनम् । वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ १४७ ॥ सा हि दिष्टानवद्याङ्गि वनाय मदिरेक्षणे । अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥१४८ ॥ सर्वथा सदृशं सीते मम स्वस्य कुलस्य च । व्यवसायमनुकान्ता कान्ते त्वमतिशोभनम् ॥ १४६ धारभस्व शुभश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सीते स्वोऽपि मम रोचते ॥ १५० ॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् । देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम् ॥ १५१ ।। भूषणानि महार्हाणि वरवस्त्राणि यानि च । रमणीयाश्च ये केचित्क्रीडार्थाश्चाप्युपस्कराः ॥ १५२ ।। शयनीयानि यानानि मम चान्यानि यानि च । देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ।। १५३ ॥ अनुकूलं तु सा भर्तुात्वा गमनमात्मनः । क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे ॥ १५४ ।। (भ्राता लक्ष्मणः) एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः । वाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ १ ॥ स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः । सीतामुवाचातियशां राघवं च महावतम् ॥ २ ॥ यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् । अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः ॥३॥