पृष्ठम्:मनोहरकाव्यमाला.pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३७ ) मया समेतोऽरण्यानि रम्याणि विचरिष्यसि । पक्षिभिर्भृङ्गयूथैश्च संघुष्टानि समन्ततः ॥ ४ ॥ न देवलोकाक्रमणं नामरत्वमहं वृणे। ऐश्वर्यं चापि लोकानां कामये न त्वया विना ॥५॥ एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः । रामेण बहुभिः सान्त्वैनिषिद्धः पुनरब्रवीत् ॥ ६ ॥ अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम् । किमिदानीं पुनरपि क्रियते मे निवारणम् ॥ ७ ॥ यदर्थ प्रतिषेधो में क्रियते गन्तुमिच्छतः । एतदिच्छामि विशातुं संशयो हि ममानघ ॥८॥ ततोऽनवीन्महातेजा रामो लक्ष्मणमग्रतः । स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम् ॥ ६ ॥ स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः । प्रियःप्राणसमो वश्यो विधेयश्च सखा च मे ॥ १०॥ मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् । को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११ ॥ अभिवर्षति कामयः पर्जन्यः पृथिवीमिव । स कामपाशपर्यस्तो महातेजा महीपतिः ॥ १२॥ सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता। दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३ ॥ न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् । भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः॥ १४ ॥ तामार्या स्वयमेवेह राजानुग्रहणेन वा। सौमित्रे भर कौसल्यामुलमर्थममुं चर ॥ १५ ॥ एवं मयि च ते भक्तिभविष्यति सुदर्शिता। धर्मगुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ १६ ॥