पृष्ठम्:मनोहरकाव्यमाला.pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४० ) अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम् । वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥ ६ ॥ अद्य नूनं दशरथः सत्वमाविश्य भाषते । नहि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ १० ॥ निर्गुणस्यापि पुत्रस्य कथं स्याद्विनिवासनम् । किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ ११ ॥ आनृशंस्यमनुकोशः श्रुतं शीलं दमः शमः । राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ १२ ॥ तस्मात्तस्योपघातेन प्रजाः परमपीडिताः । औदकानीव सत्त्वानि ग्रीष्मे सलिलसंतयात् ॥१३॥ पीडया पीडितं सर्व जगदस्य जगत्पतेः। मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥ १४ ॥ मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः । पुष्पं फलं च पत्रं च शाखाश्चास्यतेरे जनाः ॥ १५ ।। ते लक्ष्मण इव क्षिप्रं सपल्यः सहवान्धवाः । गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १६ ॥ उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च । एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १७ ॥ समुद्धृतनिघानानि परिध्वस्ताजिराणि च । उपात्तधनधान्यानि हतसाराणि सर्वशः॥ १८ ॥ रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः। मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥ १६ ॥ अपेतोदकधूमानि हीनसंमार्जनानि च । प्रणष्टबलिकर्मज्यामन्त्रहोमजपानि च ॥२०॥ दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च । अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम् ॥ २१ ॥