पृष्ठम्:मनोहरकाव्यमाला.pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

। (४१ ) वनं नगरमेवास्तु येन गच्छति राघवः । अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥ २२ ॥ बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः । त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ॥ २३ ॥ अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च । तृणमांसफलादानं देशं व्यालमृगद्विजम् ॥ २४॥ प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः । राघवेण वयं सर्वे वने वत्स्याम निर्वृताः ॥ २५ ॥ इत्येवं विविधा वाचो नानाजनसमीरिताः। शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम् ॥ २६ ॥ स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम् । अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२७॥ स राजा पुत्रमायान्तं दृष्ट्वा चारात्कृताञ्जलिम् । उत्पपातासनात्तूर्णमातः स्त्रीजनसंवृतः॥२८॥ सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः । तमसंप्राप्य दुःखार्तः पपात भुवि मूञ्छितः ॥ २६ ॥ तं रामोऽभ्यपतत्क्षिप्रं लक्ष्मणश्च महारथः। विसंज्ञमिव दुःखन सशोकं नृपति तदा ॥ ३० ॥ तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ । पर्यङ्के सीतया सार्ध रुदन्तः समवेशयन् ॥ ३१ ॥ अथ रामो मुहूर्तस्य लब्धसंझं महीपतिम् । उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतः ॥ ३२॥ आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः । प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ ३३ ॥ लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम् । कारणैर्बहुभिस्तथ्यैर्वार्यमाणो न चेच्छतः ॥ ३४ ॥