पृष्ठम्:मनोहरकाव्यमाला.pdf/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४२ ) अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद । लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान् ॥ ३५ ॥ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः। उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ ३६ ॥ अहं राघव कैकेय्या वरदानेन मोहितः । अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥ ३७ ॥ एवमुक्तो नृपतिना रामो धर्मभृतां वरः । प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ ३८ ॥ भवान्वर्षसहस्राय पृथिव्या नृपते पतिः । अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता ॥ ३ ॥ नव पञ्च च वर्षाणि वनवासे विहृत्य ते । पुनः पादौ ग्रहीष्यामि प्रतिक्षान्ते नराधिप ॥ ४० ॥ रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः । कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ ४॥ श्रेयस वृद्धये तात पुनरागमनाय च । गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ ४२ ॥ नहि सत्यात्मनस्तात धर्माभिमनसस्तव । संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ।। ४३ ॥ अद्य त्विदानीं रजनी पुत्र मा गच्छ सर्वथा । एकाहं दर्शनेनापि साधु तावञ्चराम्यहम् ॥ ४४ ॥ मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम् । तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि ॥ ४५ ॥ दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय । त्वया हि मत्प्रियार्थ तु वनमेघमुपाश्रितम् ॥ ४६ ॥ न चैतन्मे प्रियं पुत्र शपे सत्येन राघव । छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया ॥४७॥