पृष्ठम्:मनोहरकाव्यमाला.pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४३ ) वञ्चना या तु लब्धा मे तां त्वं निस्ततुमिच्छसि । अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः ॥ १८॥ न चैतदाश्चर्यतमं यत्त्वं ज्येष्ठः सुतो मम । अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥४६॥ अथ रामस्तदा श्रुत्वा पितुरातस्य भाषितम् । लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥५०॥ प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति । अपक्रमणमेवातः सर्वकामैरहं वृण ॥ ५१ ॥ इयं सराष्ट्रा सजना धनधान्यसमाकुला । मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ५२ ॥ वनवासकृता वुद्धिर्न च मे ऽद्य चलिष्यति । यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया ॥५३ ॥ दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव । अहं निदेशं भवतो यथोक्तमनुपालयन् ॥५४॥ चतुर्दश समा वत्स्ये वने वनचरैः सह। मा विमर्श वसुमती भरताय प्रदीयताम् ॥ ५५ ॥ नहि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् । यथानिदेश कर्तुं वै तवैव रघुनन्दन ॥ ५६ ॥ अपगच्छतु ते दुःखं मा भूर्वाष्पपरिप्लुतः । नहि तुभ्यति दुर्धर्षः समुद्रः सरितां पतिः॥ ५७ ॥ नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम् । नैव सर्वानिमान्कामान स्वर्ग न च जीवितुम् ॥ ५८ ॥ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ । प्रत्यहं तव सत्येन सुकृतेन च ते शपे ॥ ५६ ॥ न च शक्यं मया तात स्थातुं क्षणमपि प्रभो। स शोकं धारयस्वम नहि मेऽस्ति विपर्ययः॥६० ॥