पृष्ठम्:मनोहरकाव्यमाला.pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(४४) अर्थितो ह्यस्तु कैकेय्या वनं गच्छेति राघव । मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ६१॥ मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम् । प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥ १२ ॥ पिता हि दैवतं तात देवतानामपि स्मृतम् । तस्मादेवतमित्येव करिष्यामि पितुर्वचः ॥ ६३ ॥ चतुर्दशसु वर्षेषु गतेषु नृपसत्तम । पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥६५॥ येन संस्तम्भनीयोऽयं सर्वो वाष्पकलो जनः । स त्वं पुरुषशार्दूल किमर्थ विकियां गतः ॥ ६५ ॥ पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् । अहं निदेशं भवतोऽनुपालय- न्वनं गमिष्यामि चिराय सेवितुम् ॥ ६६ ॥ मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम् । शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ॥ ६७ ॥ न मे तथा पार्थिव दीयते मनो महत्सु कामेषु न चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःख तव मत्कृतेऽनघ ॥ ६८ ॥ तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्वसुधां न मैथिलीम् । न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्य व्रतमस्तु ते तथा ॥६६॥