पृष्ठम्:मनोहरकाव्यमाला.pdf/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् । मुखं चाप्यगमच्छोषं स्वरश्चापि व्यरुध्यत ॥ ७६ ॥ एवंविधं वचः श्रुत्वा रामो दशरथं तदा । अभ्यभाषत वाक्यं तु विनयको विनीतवत् ॥ ८० ॥ त्यक्तभोगस्य मे राजन्वने वन्यन जीवतः । किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ ८१ ॥ यो हि दत्त्वा द्विजश्रेष्ठं कक्ष्यायां कुरुते मनः। रज्जुनेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ २॥ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते । सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ २३ ॥ खनित्रपिटके चोभे समानयत गच्छत । चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ८४ ॥ चीरपरिधानम् अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् । उवाच परिधत्स्वेति जनौधे निरपत्रपा ॥१॥ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते । सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ २॥ लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे। तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ ३॥ अथात्मपरिधानार्थं सीता कौशेयवासिनी। संप्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥४॥ सा व्यपत्रपमाणेव प्रगृह्य च सुदुमनाः। कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा ॥५॥ अश्रुसंपूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी । गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ ६॥