पृष्ठम्:मनोहरकाव्यमाला.pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

(४७) कथं नु चीरं बध्नन्ति मुनयो वनवासिनः । इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ ७ ॥ कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना। तस्थौ ह्यकुशला तत्र ब्रीडिता जनकात्मजा ॥ ८॥ तस्यास्तत्क्षिप्रमागत्य रामो धर्मभृतां वरः । चीरं बबन्ध सीतायाः कौशयस्योपरि स्वयम् ॥ ६ ॥ रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् । अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम् ॥ १० ॥ चीरे गृहीते तु तया सवाष्पो नृपतेर्गुरुः। निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ ११ ॥ अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि । वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि ॥ १२ ॥ न गन्तव्यं वनं देव्या सीतया शीलवर्जिते । अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥१३॥ आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम् । आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥१४॥ अथ यास्यति वैदेही वनं रामेण संगता । वयमत्रानुयास्यामः पुरं चेदं गमिष्यति ॥ १५ ॥ अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः । सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ १६ ॥ न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः । तद् वनं भविता राष्ट्र यत्र रामो निवत्स्यति ॥ १७ ॥ भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः। वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥ १८ ॥ यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि । पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ १६ ॥