पृष्ठम्:मनोहरकाव्यमाला.pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(४८) अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम् । न चीरमस्याः प्रविधीयतेति न्यवारयत्तवसनं वसिष्ठः ॥२०॥ तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे । नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ॥२१॥ तस्यां चीरं वसानायां नाथवत्यामनाथवत् । प्रचुकोश जनः सो धिक्त्वां दशरथं त्विति ॥ २२ ॥ तेन तत्र प्रणादेन दुःखितः स महीपतिः । चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ २३ ॥ स निःश्वस्योष्णभैक्ष्वाकस्तां भार्यामिदमब्रवीत् । कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ २४ ॥ सुकुमारी च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ २५ ॥ इयं हि कस्यापकरोति किचित् तपस्विनी राजवरस्य पुत्री। या चीरमासाद्य वनस्य मध्ये जाता विसंज्ञा श्रमणीव काचित् ॥ २६ ॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा । यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः ॥२७॥ अजीवनाहेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् ।