पृष्ठम्:मनोहरकाव्यमाला.pdf/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४६ ) त्वया हि बाल्यात्प्रतिपन्नमेतत् तन्मा दहेद्वेणुमिवात्मपुष्पम् ॥ २० ॥ रामेण यदि ते पापे किंचित्कृतमशोभनम् । अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥ २६ ॥ मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी । अपकारं कमिव ते करोति जनकात्मजा ॥ ३०॥ ननु पर्याप्तमेवं ते पापे रामनिवासनम् । किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ ३१ ॥ प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता । रामं यदभिषेकाय त्वमिहागतमव्रवीः ॥ ३२ ॥ तत्त्वेतत्समतिक्रम्य निरयं गन्तुमिच्छसि। मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ ३३॥ इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किंचित् । भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः ॥ ३४ ॥ एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् । अवाक्शिरसमासीनमिदं वचनमब्रवीत् ॥ ३५ ॥ इयं धार्मिक कौसल्या मम माता यशखिनी। वृद्धा चाक्षुद्रशीला च न च त्वां देव गहते ॥ ३६॥ मया विहीनां वरद प्रपन्नां शोकसागरम् । अदृष्टपूर्वव्यसनां भूयः समन्तुमर्हसि ॥ ३७॥ रामस्य तु वचः श्रत्वा मुनिवेषधरं च तम् । समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ ३८॥ नैनं दुःखेन संतप्तः प्रत्यवेक्षत राधवम् । न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ ३६ ॥