पृष्ठम्:मनोहरकाव्यमाला.pdf/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः । विललाप महाबाहू राममेवानुचिन्तयन् ॥ ४० ॥ मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः । प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम् ॥४१॥ न त्वेवानागते काले देहाच्च्यवति जीवितम् । कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥४२॥ योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् । विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥४३॥ एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः । स्वार्थे प्रयतमानायाः संश्रित्य निकृति विमाम् ।। ४४॥ एवमुक्त्वा तु वचनं वाष्पेण विहतेन्द्रियः। रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः॥४५॥ संक्षां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः । नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ४६ ।। औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः । प्रापयैनं महाभागमितो जनपदात्परम् ।। ४७॥ एवं मन्ये गुणवतां गुणानां फलमुच्यते । पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥४८॥ राज्ञो वचनमाशाय सुमन्त्रः शीघ्रविक्रमः । योजयित्वा ययौ तत्र रथमश्वैरलंकृतम् ।। ४६ ।। तं रथं राजपुत्राय सूतः कनकभूपितम् । आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ ५० ॥ राजा सत्वरमाहूय व्यापृतं वित्तसंचये । उवाच देशकालशो निश्चितं सर्वतः शुचिः॥ ५१ ।। वासांसि च वराहाणि भूषणानि महान्ति च । वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ।। ५२ ।।