पृष्ठम्:मनोहरकाव्यमाला.pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः । प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत् ॥ ५३ ।। सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् । भूषयामास गात्राणि तैर्विचित्रविभूषणैः ॥ ५४॥ व्यराजयत वैदेही वेश्म तत्सुविभूषिता। उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ।। ५५ ।। तां भुजाभ्यां परिष्वज्य श्ववचनमब्रवीत् । अनाचरन्ती कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ।। ५६ ।। असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः । भर्तारं नाभिमन्यन्ते विनिपातगत स्त्रियः ॥५७ ।। एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ ५८ ।। असत्यशीला विकृता दुर्गा अहृदयाः सदा। असत्यः पापसंकल्पाः क्षणमात्रविरागिणः ॥ ५ ॥ न कुलं न कृतं विद्यां न दत्तं नापि संग्रहः । स्त्रीणां गृह्णाति हृदयमनित्यहृदया हिताः ॥ ६०॥ साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते । स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥६१ ॥ स त्वया नावमन्तव्यः पुत्रः प्रवाजितो वनम् । तव देवसमस्त्वेष निर्धनः सधनोऽपि वा ॥ ६२॥ विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् । कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता ॥६३ ॥ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् । अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥ ६४ ॥ न मामसज्जनेनार्या समानयितुमर्हति । धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ॥६५॥