पृष्ठम्:मनोहरकाव्यमाला.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यसनी वा समृद्धो गतिरेष तवानघ । एष लोके सतां धर्मों यज्ज्येष्ठवंशगो भवेत् ॥ ६ ॥ इदं हि वृत्तमुचितं कुलास्यास्य सनातनम् । दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेपु हि ॥ ७ ॥ लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम् । सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥ ८ ॥ राम दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ ६ ॥ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यव्रवीत् । विनीतो विनयशश्च मातलिसवं यथा ॥ १०॥ रथमारोह भद्रं ते राजपुत्र महायशः। क्षिप्रं त्वां प्रापयिष्यामि यत्र मांराम वक्ष्यसे ॥ ११ ॥ तं रथं सूर्यसंकाशं सीता हृऐन चेतसा । प्रारुरोह वरारोहा कृत्वालङ्कारमात्मनः ॥ १२॥ वनवासं हि संख्याय वासांस्याभरणानि च । भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १३ ॥ तथैवायुधजातानि भ्रातृभ्यां कवचानि च । रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत् ॥ १४ ॥ अथ ज्वलनसंकाशं चामीकरविभूषितम् । तमारुरुहतुस्तूर्णे भ्रातरौ रामलक्ष्मणौ ॥१५॥ सीतातृतीयानारूढान्दृष्ट्वा रथमचोदयत् । सुमन्त्रः संमतानश्वान्वायुवेगसमाञ्जवे ॥ १६ ॥ ततः सबालवृद्धा सा पुरी परमपीडिता । राममेवाभिदुद्राव धर्मातः ससिलं यथा ॥ १७ ॥ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः । वाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः ॥ १८ ॥