पृष्ठम्:मनोहरकाव्यमाला.pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

1 ( ५४ ) संयच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः मुखं द्रक्ष्याम रामस्य दुर्दर्श नो भविष्यति ॥ १६ ॥ आयसं हृदयं नूनं राममातुरसंशयम् । यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥२०॥ कृतकृत्या हि वैदेही छायेवानुगता पतिम् । न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २१ ॥ अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् । भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि ॥ २२ ॥ महत्येषा हि ते वुद्धिरेष चाभ्युदयो महान् । एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥२३ ।। एवं वदन्तस्ते सोढुं न शेकुर्वाष्पमागतम् । नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम् ॥ २४ । अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः । निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति वन्गृहात् ॥ २५॥ शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः । यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २६ ॥ पिता हि राजा काकुत्स्थः श्रीमान्सन्नस्तदा बभौ । परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ २७ ।। स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः। सूतं संचोदयामास त्वरितं वाह्यतामिति ॥ २८ ॥ रामो याहीति तं सूतं तिष्ठेति च जनस्तथा । उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ २६ ॥ निर्गच्छति महावाहौ रामे पौरजनाश्रुभिः । पतितैरभ्यवहितं प्रणनाश महीरजः ॥ ३०।। रुदिताशुपरिबूनं हाहाकृतमचेतनम् । प्रयाणे राघवस्थासीत्पुरं परमपीडितम् ॥ ३१ ॥