पृष्ठम्:मनोहरकाव्यमाला.pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् । मनसाप्याशुवेगेन न न्यवर्तत मानुषम् ॥ ४५ ॥ यमिच्छेत्पुनरायातं नैनं दूरमनुव्रजेत् । इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ ४६॥ तेषां वचः सर्वगुणोपपन्नः प्रस्विन्नगात्रः प्रविषण्णरूपः । निशम्य राजा कृपणः सभार्यो व्यवस्थिस्ततं सुतमीक्षमाणः ॥ ४७ ॥ यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत । नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी ॥४८॥ न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः। तदार्तश्च विषण्णश्च पपात धरणीतले ॥ ४६॥ तस्य दक्षिणमन्वागात्कौसल्या बाहुमङ्गना । परं चास्यान्वगात्पावं कैकेयी सा सुमध्यमा ॥५०॥ तां नयेन च संपन्नो धर्मेण विनयेन च । उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ ५१ ॥ कैकेयि मामकाङ्गानि मा स्प्राक्षी: पापनिश्चये । नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ ५२ ॥ ये च त्वामनुजीवन्ति नाहं तेषां न ते मम । केवलार्थपरां हि त्वां त्यक्तधी त्यजाम्यहम् ॥ ५३ ॥ अथ रेणुसमुध्वस्तं समुत्थाप्य नराधिपम् । न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १४ ॥