पृष्ठम्:मनोहरकाव्यमाला.pdf/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

(५७) सीताहरणम् । हैममृगदर्शनम् । हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्- एतद्रामाश्रमपदं दृश्यते कदलीवृतम् । क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥१॥ स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा । मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह ॥२॥ स तु रूपं समास्थाय महदद्भुतदर्शनम् । मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ॥३॥ रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः । किंचिदत्युनतग्रीव इन्द्रनीलनिभोदरः॥४॥ मधूकनिभपार्श्वश्च कञ्जकिअल्कसंनिभः । वैदूर्यसंकाशखुरस्तनुजक्वः सुसंहतः ॥ ५॥ इन्द्रायुधसवर्णेन पुच्छेनोर्ध्व विराजितः। मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ॥ ६॥ क्षणेन राक्षसो जातो मृगः परमशोभनः । वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् ॥ ७ ॥ मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः । प्रलोभनार्थं वैदेह्याः नानाधातुविवित्रितम् ॥ ८॥ विचरन्गच्छते शष्पं शावलानि समन्ततः। रौप्यविन्दुशतैश्चित्रं भूत्वा च प्रियनन्दनः ॥ ६ ॥ विटपीनां किसलयान्भक्षयन्विचचार ह। कदलीगृहकं गत्वा कर्णिकारानितस्ततः ॥१०॥ तमाश्रमं मन्दगति.सीतासंदर्शनं ततः राजीवचित्रपृष्ठः स विरराज महामृगः ॥११॥