पृष्ठम्:मनोहरकाव्यमाला.pdf/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५८ ) रामाश्रमपदाभ्याशे विचचार यथासुखम् । पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः॥ १२ ॥ गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते। विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति ॥ १३ ॥ आश्रमद्वारमागम्य मृगयूथानि गच्छति । मृगयूथैरनुगतः पुनरेव निवर्तते ॥ १४ ॥ सीतादर्शनमाकाक्षराक्षसो मृगतां गतः । परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ॥ १५॥ समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः । उपगम्य समाघ्राय विद्रवन्ति दिशो दश ॥ १६ ॥ राक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः । प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ॥ १७ ॥ तस्मिन्नेव ततः काले वैदेही शुभलोचना । कुसुमापचये व्यग्रा पादपानत्यवर्तत ॥१८॥ कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा । कुसुमान्यपचिन्वन्ती चचार रुधिरानना ॥ १६ ॥ अनर्हा वनवासस्य सा तं रत्नमयं मृगम् । मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ २० ॥ तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम् । विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ॥ २१ ॥ अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा ॥ २२॥ प्रहृष्टा चानवद्याङ्गी मृग्रहाटकवर्णिनी। भर्तारमपि चक्रन्द लक्ष्मणं चैव सायुधम् ॥ २३ ॥ आहूयाहूय च पुनस्तं मृगं साधु वीक्षते । आगच्छागच्छ शीघ्रं वै पार्यपुत्र सहानुज ॥ २४ ॥