पृष्ठम्:मनोहरकाव्यमाला.pdf/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( (५६ ) तावाहूतौ नरव्याघ्रो वैदेह्या रामलक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मंगम् ॥ २५ ॥ शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो वाक्यमब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ २६ ॥ चरन्तो मृगयां दृष्टाः पापेनोपाधिना वने । अनेन निहता राम राजानः पापरूपिणा ॥ २७ ॥ अस्य मायाविदो माया मृगरूपमिदं कृतम् । भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् ॥ २८ ॥ मृगो ह्येवविधो रत्नविचित्रो नास्ति राघव । जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ २६ ॥ एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता । उवाच सीता संहृष्टा छनना हृतचेतना ॥ ३०॥ आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः । आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ ३१॥ न चान्यः सदृशो राजन्दृष्टः पूर्व मृगो मया । तेजसा क्षमया दीप्त्या यथाऽयं मृगसत्तमः ॥ ३२॥ नानावर्णविचित्राङ्गो रत्नभूतो ममाग्रतः । द्योतयन्वनमव्यग्रं द्योतते शशिसंनिभः ॥ ३३ ॥ अहो रूपमहो लक्ष्मीः स्वरसंपञ्च शोभना । मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥ ३४ ॥ यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव । आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ ३५ ॥ समाप्तवनवासानां राज्यस्थानां च नः पुनः । अन्तःपुरे विभूषार्थो मृग एष भविष्यति ॥ ३६॥ भरतस्यार्यपुत्रस्य श्वश्रूणां च मम प्रभो । मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति ॥ ३७॥