पृष्ठम्:मनोहरकाव्यमाला.pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः । अजिनं नरशार्दूल रुचिरं तु भविष्यति ॥ ३८ ॥ निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि । शष्पवृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ ३६ ॥ कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् । वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ ४०॥ तेन काञ्चनरोम्णा तु मणिप्रवरङ्गिणा । तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ॥ बभूव राघवस्यापि मनो विस्मयमागतम् ॥ ४१ ॥ लोभितस्तेन रूपेण सीतया च प्रचोदितः । उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ ४२ ॥ पश्य लक्ष्मण वैदेह्याः स्पृहामुल्लसितामिमाम् । रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ॥ ४३॥ न वने नन्दनोद्देशे न चैत्ररथसंश्रये । कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ॥ ४४ ॥ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः । शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ ४५ ॥ पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् । जिह्वां मुखान्निःसरन्ती मेघादिव शतहदाम् ॥ ४६ ॥ मसारगलर्केमुखः शङ्खमुक्तानिभोदरः । कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः ॥४७॥ कस्य रूपमिदं दृष्टुा जाम्बूनदमयप्रभम् । नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ ४८ ॥ मांसहेतोरपि मृगान्विहारार्थ च धन्विनः ।' घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥ ४६॥