पृष्ठम्:मनोहरकाव्यमाला.pdf/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

रामानुगमनम् । तथा तु तं समुद्दिश्य भ्रातरं रघुनन्दनः । दधारासिं महातेजाः जाम्बूनदमयत्सरुम् ॥१॥ ततस्त्रिविनतं चापमादायात्मविभूषणम् । आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥२॥ तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात्पुनः संदर्शनेऽभवत् ॥ ३ ॥ शङ्कितं तु समुज्रान्तमुत्पतन्तमिवाम्बरम् । दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ॥ ४॥ छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् । मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ॥ ५ ॥ दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् । स दूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥ ६ ॥ आसीत्क्रूद्धस्तु काकुत्स्थो विवशस्तेन मोहितः । अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले ॥७॥ स तमुन्मादयामास मृगरूपो निशाचरः । मृगैः परिवृतोऽथान्यैरदूरात्प्रत्यदृश्यत ॥ ८ ॥ ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत । तत्क्षणादेव संत्रासात्पुनरन्तर्हितोऽभवत् ॥ ६ ॥ पुनरेव ततो दूरावृक्षखण्डाद्विनिःसृतः । दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ॥ १०॥ भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः । सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः ॥ ११ ॥ संधाय सदृढं चापे विकृष्य बलवदली। तमेव मृगमुद्दिश्य ज्वलन्तमिव पन्नगम् ॥ १२ ॥