पृष्ठम्:मनोहरकाव्यमाला.pdf/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६३ ) मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् । स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः ॥ १३ ॥ मारीचस्यैव हृदयं बिभेदाशनिसंनिभः ।। तालमात्रमथोत्प्लुत्य न्यपतत्स भृशातुरः ॥ १४ ॥ व्यनदद्भैरवं नादं धरण्यामल्पजीवितः । म्रियमाणस्तु मारीचो जहौ तां कृत्रिमा तनुम् ॥ १५ ॥ स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् । इह प्रस्थापयेत्सीता तां शून्ये रावणो हरेत् ॥१६॥ स प्राप्तकालमाज्ञाय चकार च ततः स्वनम् । सदृशं राघवस्येव हा सीते लक्ष्मणेति च ॥ १७ ॥ तेन मर्मणि निर्विद्धं शरेणानुपमेन हि । मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमास्थितः ॥ १८॥ चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् । तं दृष्ट्वा पतितं भूमौ राक्षस भीमदर्शनम् ॥ १६ ॥ रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले । जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥२०॥ मारीवस्य तु मायैषा पूर्वोक्ता लक्ष्मणेन तु । तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः॥ २१ ॥ हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम् । ममार राक्षसः; सोऽयं श्रुत्वा सीता कथं भवेत् ॥ २२ ॥ लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति। इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥२३॥ तत्र रामं भयं तीवमाविवेश विषादजम् । राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्वनम् ॥ २४॥ निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखं तदा ॥ २५ ॥