पृष्ठम्:मनोहरकाव्यमाला.pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६४ ) लक्ष्मणानुगमनम् आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ १॥ नहि मे जीवितं स्थाने हृदयं वावतिष्ठते । क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥ २॥ आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि । तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ ३ ॥ रक्षसां वशमापनं सिंहानामिव गोवृषम् । न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ ४ ॥ तमुवाच ततस्तत्र तुभिता जनकात्मजा । सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥५॥ यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यस । इच्छसि त्वं विनश्यन्तं राम लक्ष्मण मत्कृते ॥ ६॥ लोभात्तु मत्कृते नूनं नानुगच्छसि राघवम् । व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ॥ ७ ॥ तेन तिष्ठसि विश्रब्धं तमपश्यन्महाद्युतिम् । किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ॥८॥ कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः । एवं ब्रुवाणां वैदेही वाष्पशोकसमन्विताम् ॥ ६ ॥ अब्रवील्लक्ष्मणस्रस्तां सीतां मृगवधूमिव । पन्नगासुरगन्धर्वदेवदानवराक्षसैः ॥ १० ॥ अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः । देवि देवमनुष्येषु गन्धर्वेषु पतत्त्रिषु ॥ ११ ॥ राक्षसेपु पिशाचेषु किन्नरेपु मृगेषु च । दानवेषु च घोरेपु न स विद्येत शोभने ॥ १२॥