पृष्ठम्:मनोहरकाव्यमाला.pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ६७ ) तमार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालमेत्राम् । आश्वासयामासः न चैव भर्तुः स्तं भ्रातरं किंचिदुवाच सीता ॥ ३६॥ ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य च । अवेक्षमाणो बहुशः स मैथिली जगाम रामस्य समीपमात्मवान् ॥ ४०॥ रावण-प्रवेशः। तया परूषमुक्तस्तु कुपितो राघवानुजः । स विकाङ्क्षन्भृशं रामं प्रतस्थे न चिरादिव ॥१॥ तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः । अभिचक्राम वैदेही परिव्राजकरूपधृक् ॥ २॥ श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥ ३ ॥ परिव्राजकरूपेण वैदेहीमन्ववर्तत । तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥४॥ रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः । तामपश्यत्ततो बालां राजपुत्री यशस्विनीम् ॥५॥ रोहिणीं शशिना हीनां ग्रहवभृशदारुणः । तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः ॥ ६ ॥ संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः। शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ॥ ७॥ स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी। रामस्य त्वन्तरं प्रेप्सुदर्शग्रीवस्तदन्तरे ॥८॥