पृष्ठम्:मनोहरकाव्यमाला.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः । अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥ ६ ॥ अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः । सहसा भव्यरूपेण तृणैः कूप इवावृतः॥ १०॥ अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्- शुभां रुचिरदन्तोष्ठी पूर्णचन्द्रनिभाननाम् । आसीनां पर्णशालायां वाष्पशोकाभिपीडिताम् ॥ ११ ॥ स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेहीं हएचेता निशाचरः ॥१२॥ दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन् । अब्रवीत्प्रथितं वाक्यं रहिते राक्षसाधिपः ॥ १३॥ रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव व बिभ्रती ॥ १४ ॥ ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने । भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ॥ १५ ॥ समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव । विशाले विमले नेत्रे रकान्ते कृष्णतारके ॥ १६ ॥ विशालं जघनं पीनमूरु करिकरोपमा । एतावुपचितौ वृत्तौ संहती संप्रगल्भितौ ॥ १७ ॥ पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ । मणिप्रवेकाभरणी रुचिरौ तौ पयोधरौ ॥ १८ ॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे रामे नदीकृलमिवाम्भसा ॥ १६ ॥ नैव देवी न गन्धर्वी न यक्षी न च किन्नरी । नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ २० ॥