पृष्ठम्:मनोहरकाव्यमाला.pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

रूपमग्र्यं च लोकेषु सौकुमार्य वयश्च ते । इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे ॥ २१ ॥ सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि । राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥ २२ ॥ प्रसादाग्राणि रम्याणि नगरोपवनानि च । संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ २३ ॥ वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने । भर्तारं च वरं मन्ये त्वद्युक्तमसितक्षणे ॥ २४॥ का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते । वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ २५ ॥ नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः । राक्षसानामयं वासः कथं तु त्वमिहागता ॥ २६ ॥ इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः । ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे ॥ २७ ॥ मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् । कथमेका महारण्ये न विभेषि वरानने ॥ २८ ॥ कासि कस्य कुतश्च त्वं किनिमित्तं च दण्डकान् । एका चरसि कल्याणि घोरान् राक्षससेवितान् ॥ २६ ॥ इति प्रशस्ता वैदेही रावणेन महात्मना । द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ॥ ३० ॥ सर्वैरतिथिसत्कारैः पूजयामास मैथिली । उपानीयासनं पूर्वे पायेनाभिनिमन्त्र्य च ॥ ३१ ॥