पृष्ठम्:मनोहरकाव्यमाला.pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७० ) सीतारावणयो संवादः। रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा । परिव्राजकरूपेण शशंसात्मानमात्मना ॥ १॥ ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ २॥ दुहिता जनकस्याहं मैथिलस्य महात्मनः । सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया ॥ ३॥ समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया । आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् । रुरून्गोधान्वराहांश्च हत्वाऽऽदायामिषं बहु ॥ ४ ॥ स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः ॥ एकश्च दण्डकारण्ये किमर्थ चरसि द्विज ॥५॥ एवं ब्रूवत्यां सीतायां रामपल्यां महाबलः । प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥६॥ येन वित्रासिता लोकाः स देवासुरमानुषाः । अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥ ७॥ त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् । रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ ८ ॥ वह्वीनामुत्तस्त्रीणामाहतानामितस्ततः। सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ ६ ॥ लङ्का नाम समुद्रस्य मध्ये मम महापुरी। सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि ॥ १०॥ तत्र सीते मया सार्द्धं वनेषु विचरिष्यसि । न चास्य वनवासस्य स्पृहयिष्यसि भामिनी ॥११॥ पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः। सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥१२॥