पृष्ठम्:मनोहरकाव्यमाला.pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

रावणेनैवमुक्ता तु कुपिता जनकात्मजा। प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥ १३ ॥ महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् । महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ १४ ॥ सर्वलक्षणसंपन्नं न्यग्रोधपरिमण्डलम् । सत्यसंधं महाभागमहं राममनुव्रता ॥ १५ ॥ महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् । नृसिंहं सिंहसंकाशंमहं राममनुव्रता ॥ १६ ॥ पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् । पृथुकीर्ति महाबाहुमहं राममनुव्रता ॥ १७ ॥ त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् । नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ १८ ॥ पादपान्काञ्चनाननं बहून्पश्यसि मन्दभाक् । राघवस्य प्रियां भार्या यस्त्वमिच्छसि राक्षस ॥१६॥ क्षुधितस्य च सिंहस्य मृगशवोस्तरखिनः । आशीविषस्य वदनादंष्ट्रामादातुमिच्छसि ॥ २० ॥ मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि । कालकूटं विषं पीत्वा खस्तिमानगन्तुमिच्छसि ॥ २१ ॥ अति सूच्या प्रमृजसि जिह्वया लेढि च तुरम् । राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि ॥ २२ ॥ अवसज्ज्य शिलां कण्ठे समुद्र तर्तुमिच्छसि । सूर्यचन्द्रमसौ चोभी पाणिभ्यां हर्तुमिच्छसि । यो रामस्य प्रियां भार्या प्रधर्षयितुमिच्छसि ॥ २३ ॥ अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि । कल्याणवृत्तां यो भार्यां रामस्याहर्तुमिच्छसि ॥ २४ ॥