पृष्ठम्:मनोहरकाव्यमाला.pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७२ ) अयोमुखानां शूलानां मध्ये चरितुमिच्छसि । रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ २५ ॥ यदन्तरं सिंहमृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः । सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च ॥ २६ ॥ यदन्तरं काञ्चनसीसलोहयो- र्यदन्तरं चन्दनवारिपङ्कयोः। यदन्तरं हस्तिविडालयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ २७ ॥ यदन्तरं वायसवैनतेययो- र्यदन्तरं मद्गुमयूरयोरपि । यदन्तरं हंसकगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ २८ ॥ एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रूकुटिं कृत्वा रावणः प्रत्युवाच ह ॥ २६॥ भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ ३० ॥ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः। विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः ॥ ३१ ॥ येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे । द्वंद्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ ३२ ॥ मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ ३३ ॥ यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् । वीर्यादावर्जितं भद्रे येन यामि विहायसम् ॥ ३४ ॥