पृष्ठम्:मनोहरकाव्यमाला.pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७५ ) त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि । मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥११॥ मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव । नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ॥ १२ ॥ त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् । राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ॥ १३ ॥ कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः स्त्रियो वचनाद्राज्यं विहाय ससुहृजनम् ॥ १४ ॥ अस्मिन्न्यालानुचरिते वने वसति दुर्मतिः । इत्युक्त्वा मैथिलीं वाक्यं प्रियाही प्रियवादिनीम् ॥ १५ ॥ अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः। जग्राह रावणः सीतां वुधः खे रोहिणीमिव ॥ १६ ॥ वामेन सीतां पद्माक्षी मूर्घजेषु करेण सः । ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ १७ ॥ तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्र महाभुजम् । प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः ॥ १८ ॥ स च मायामयो दिव्यः खरयुक्तः खरस्वनः । प्रत्यदृश्यत हेमांगो रावणस्य महारथः ॥ १६ ॥ ततस्तां परुषैर्वाक्यैरभितयं महास्वनः । अङ्केनादाय वैदेहीं रथमारोहयत्तदा ॥ २० ॥ सा गृहीतातिचुक्रोश रावन यशस्विनी । रामेति सीता दुःखार्ता रामं दूरं गतं वने ॥ २१ ॥ तामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विचेष्टमानामादाय उत्पपाताथ रावणः ॥ २२ ॥ ततः सा रतसेन्द्रेण ह्रियमाणा विहायसा । भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥ २३ ॥