पृष्ठम्:मनोहरकाव्यमाला.pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सा तमुवीक्ष्य सुश्रोणी रावणस्य वशंगता। समाक्रन्दद्भयपरा दुःखोपहितया गिरा ॥ ३७ ॥ जटायो पश्य मामार्य ह्रियमाणामनाथवत् । अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥ ३८॥ नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः । सत्त्ववाञ्जितकाशी व सायुधश्चैव दुर्मतिः ॥ ३६ ॥ रामाय तु यथातत्त्वं जटायो हरणं मम । लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ ४०॥ जटायुः। तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे । निरैक्षद्रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ १॥ ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः । वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् ॥ २॥ दशग्रीव स्थितो धर्म पुराणे सत्यसंश्रवः । भ्रातस्त्वं निन्दितं कर्म कर्तुं नाहसि सांप्रतम् ॥ ३॥ जटायुर्नाम नानाहं गृधराजो महाबलः । राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ॥ ४ ॥ लोकानां च हिते युक्तो रामो दशरथात्मजः। तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ॥ ५ ॥ सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि । कथं राजा स्थितो धर्म परदारान्परामृशेत् ॥ ६॥ रक्षणीया विशेषेण राजदारा महाबल । निवर्तय गतिं नीचां परदाराभिमर्शनात् ॥ ७ ॥ न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् । यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् ॥ ८॥