पृष्ठम्:मनोहरकाव्यमाला.pdf/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७८ ) यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥ ६ ॥ अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः । यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि ॥१०॥ क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद्दहनभूतेन वृत्तमिन्द्राशनिर्यथा ॥ ११ ॥ सर्पमाशीविषं वड्वा वस्त्रान्ते नावबुध्यसे । ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥ १२ ॥ स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ १३ ॥ यत् कृत्वा न भवेद्धर्मो न कीर्तिर्न यो ध्रुवम् । शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥ १४ ॥ वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी। न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ॥१५॥ न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः । हेतुभिर्न्यायसंयुक्तैर्धवां वेदश्रुतीमिव ॥ १६ ॥ नहि मे जीवमानस्य में नयिष्यसि शुभामिमाम् । सीतां कमलपत्राक्षीं रामस्य महिषर्षी प्रियाम् ॥ १७ ॥ अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः । जीवितेनापि रामस्य तथा दशरथस्य च ॥ १८ ॥ तिष्ठ तिष्ठ दशग्रीव मुहूर्त पश्य रावण । वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् । युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ॥ १६ ॥ इत्युक्तः क्रोधताम्राक्षस्तप्तकाञ्चनकुण्डलः । राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥ २० ॥