पृष्ठम्:मनोहरकाव्यमाला.pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७६ )

स संप्रहारस्तुमुलस्तयोस्तस्मिन् महामृधे । बभूव वातोद्धुतयोर्मेघयोर्गगने यथा ॥ २१ ॥ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः । चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥ २२ ॥ अथ कोधाद्दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान्घोराञ्छनोर्निधनकातया ॥ २३ ॥ स तैर्वाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः । बिभेद निशितैस्तीक्ष्णैर्गृधं घोरैः शिलीमुखैः ॥ २४ ॥ स राक्षसरथे पश्यानकी वाष्पलोचनाम् । अचिन्तयित्वा बाणांस्तान्राक्षसं समभिद्रवत् ॥ २५ ॥ ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजा बभज पतगोत्तमः ॥ २६ ॥ ततोऽन्यद्धनुरादाय रावणः क्रोधमूञ्छितः । ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः ॥ २७ ॥ शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमभिसम्प्राप्तः पक्षिवञ्च बभौ तदा ॥ २८ ॥ स तानि शरजालानि पक्षाभ्यां तु विधूय है। चरणाभ्यां महातेजा बभजास्य महद्धनुः ।। २६ ।। तश्चाग्निसदृशं दीप्तं रावणस्य शरावरम् । पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः ॥ ३०॥ काञ्चनोरश्छदान्दिव्यान् पिशाचवदनान्खरान् । तांश्चास्य जवसंपन्नाञ्जघान समरे बली ॥ ३१ ॥ अथ त्रिवेणुसंपन्नं कामगं पावकार्चिषम्। मणि-सोपान-चित्राझं बभा च महारथम् ॥ ३२॥ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह । पातयामास वेगेन ग्राहिभि राक्षसैः सह ॥ ३३ ॥