पृष्ठम्:मनोहरकाव्यमाला.pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८३ ) त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छता । ममापवाहितो भर्ता मृगरूपेण मायया ॥ २३ ।। मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम । विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ २४ ॥ येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि । व्यवसाय स्तु ते नीच भविष्यति निरर्थकः ।। २५ ॥ नह्यहं तमपश्यन्ती भर्तारं विवुधोपमम् । उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम् ॥ २६ ॥ न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे । मृत्युकाले यथा मर्यो विपरीतानि सेवते ॥ २७ ॥ मुमूर्षणां तु सर्वेषां यत्पथ्यं तन्न रोचते । पश्यामीह हि कण्ठे त्वां कालपाशावपाशितम् ॥ २८ ॥ व्यक्तं हिरण्मयांस्त्वं हि संपश्यसि महीरुहान् । नदी वैतरणी घोरां रुधिरौघविवाहिनीम् ॥ २६ ॥ खङ्गपत्रवनं चैव भीमं पश्यसि रावण । तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् ॥ ३०॥ द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् । न हि त्वमीशं कृत्वा तस्यालीकं महात्मनः॥ ३१ ॥ धारितुं शक्ष्यसि चिरं विषं पीत्वेव निघृण । वद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ ३२ ॥ क गतो त्वप्स्यसे शर्म मम भर्तुर्महात्मनः । निमेषान्तरमात्रेण विना भ्रातरमाहवे ॥३३॥ राक्षसा निहता येन सहस्राणि चतुर्दश । कथं स राघवो वीरः सर्वास्त्रकुशलो वली । न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ॥ ३४॥