पृष्ठम्:मनोहरकाव्यमाला.pdf/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

एतच्चान्यच्च परुष वैदेही रावणाङ्कगा। भयशोकसमाविष्टा करुणं विललाप ह ॥ ३५॥ ह्रियमाणा तु वैदेही कश्चिन्नाथमपश्यती। ददर्श गिरिशृङ्गस्थान्पश्च वानरपुङ्गवान् ॥ ३६॥ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च ॥ ३७ ॥ मुमोच यदि रामाय शंसेयुरिति भामिनी । वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥ २८॥ संभ्रमात्तु दशग्रीवस्तत्कर्म च न बुद्धवान् । पिङ्गाक्षस्तां विशालाक्षीँ नेत्रैरनिमिषैरिव ॥ ३६॥ विक्रोशन्तीं तदा सीतां ददृशुर्वानरोत्तमाः । स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥ ४० ॥ जगाम मैथिलीं गृह्य रुदतीं राक्षसेश्वरः । तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥ ४१ ॥ उत्सङ्गेनैव भुजगी तीदणदंष्ट्रां महाविषाम् । वनानि सरितः शैलान्सरांसि च विहायसा ॥ ४२ ॥ स क्षिप्रं समतीयाय शरश्चापादिव च्युतः । तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ॥ ४३ ॥ सरितां शरणं गत्वा समतीयाय सागरम् । संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ॥ ४४ ॥ वैदेह्यां हियमाणायां बभूव वरुणालयः । अन्तरिक्षगता वाचः ससृजुश्चारणास्तथा ॥ ४५ ॥ एतदन्तो दशग्रीव इति सिद्वास्तदाऽब्रुवन् । स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः ॥ ४६ ॥ प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः। सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ॥ ४७ ॥