पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११०

पुटमेतत् सुपुष्टितम्
९२
काव्यमाला ।

प्राचीनम्--

चापमानय सौमित्रे शरानाशीविषोपमान् ।
समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवंगमाः ॥ ४ ॥
भयं चित्तस्य वैक्लव्यं व्याघ्रादिजनितं मतम् ।
घनगर्जितमाकर्ण्य विशन्तो गिरिकन्दरान् ।
तेभ्यः प्रतिध्वनेर्भीता निवर्तन्ते मृगार्भकाः ॥ ५ ॥
जुगुप्सा निन्दितज्ञानं दोषसंदर्शनादिभिः ॥
इयं प्रोतकपालालीभूषणा रावभीषणा ।
[सु]पीतो(नो)त्स(त्स्य)न्दिरक्तार्द्रस्तना तिष्ठति ताटका ॥ ६ ॥
विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः ।
युध्यन्तमर्जुनं वीक्ष्य के वा देवा न विस्मिताः ।
न मेने बहु गोविन्दो दृष्टकर्णपराक्रमः ॥ ७ ॥
आभिमुख्यात्तिरोभावाविर्भावाभ्यां चरन्ति ये ॥
स्थायिभावेषु सत्स्वेव रसेषु व्यभिचारिणः ।
निर्वेदग्लानिशङ्काश्च व्रीडासूयामदश्रमाः ॥
आलस्यं दैन्यमावेगश्चिन्तामोहः स्मृतिर्धृतिः ।
हर्षश्चपलता गर्वो जडतौत्सुक्यमुग्रता ॥
विषादनिद्रापस्मारविबोधामर्षसुप्तयः ।
अवहित्थोन्मादमतिमरणव्याधयस्तथा ॥
त्रासो चितर्क इत्येव त्रयस्त्रिंशदमी मताः ।
तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदो निष्फलत्वधीः ॥
तत्रानुभावाश्चिन्ताश्रुवैवर्ण्यश्वासदीनताः ।
फलं किमेतैः सखि मे भूषणैर्भोजनैरपि ।
इत्युक्त्वाश्रु मुमोचासौ सनिश्वासं मृगेक्षणा ॥ ८ ॥
रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निर्बलता मता ॥
अत्रानुभावा वैवर्ण्यकम्पानुत्साहवामताः ।