पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१४६

पुटमेतत् सुपुष्टितम्
१२८
काव्यमाला ।

तादृक्षमपि चातुर्यं सौन्दर्यं तव मानिनि ।
व्यर्थमेवेति जानीहि सरसं दयितं विना ॥ ९८ ॥
विना क्रूरस्वरं काकमाकन्दं मकरन्दितम् ।
गाहस्व गाढं गन्तारः कोकिलं मन्वते जनाः ॥ ९९ ॥
(अथ समासोक्तिः--)
अप्रस्तुतपरिस्फूर्तिर्यत्र प्रस्तुतवर्णने ।
समासोक्तिद्विधा सापि श्लिष्टाश्लिष्टविभेदतः ॥
आदौ रक्तो गोभिः संमान्यैन्द्रीमुखं चुचुम्बायम् ।
अद्य समुज्झितरागः स्पृहयति भूयोऽपि वारुणीं गन्तुम् ॥ १०० ॥
(प्राचीनम्--)
विदितं ननु कन्दुक ते हृदयं प्रमदाधरसगमलुब्ध इह ।
करतामरसाभिहतः पतितः पतितः पदतः पुनरुत्पतसि ॥ १०१ ॥
(अथ श्लेषः--)
नानार्थसंश्रयैः शब्दैः साधर्म्यप्रतिपादनम् ।
वर्ण्यावर्ण्योभयेषां चेच्छ्लेषालंकृतिरिष्यते ॥
लसद्वराहश्रीर्व्यक्तकमलाश्लिष्टसद्रसः ।
स सूर्यः सर्वदा भूयात्तेजस्वी मङ्गलाय ते ॥ १०२ ॥
सदानभोगेन राज्ञा सदृशं ते मुखं सखि ।
राजा तव प्रियो भूयात्सदा कुवलयप्रभुः ॥ १०३ ॥
प्राचीनम्--
सर्वालंकारयुक्तापि न श्लिष्टा तरुणीव सा ।
वाणी मनोजातसुखं प्रौढानां न तनोति हि ॥ १०४ ॥
(अथ परिकरः--)
साभिप्रायं विशेष्यं चेत्प्रोक्तः परिकराङ्कुरः ।
त्वदङ्गालोकने तन्वि पौलोमीवल्लभः पटुः ।
(अथाप्रस्तुतप्रशंसा--)
अप्रस्तुतप्रशंसा तु प्रस्तुतं यदि गम्यते ।
अप्रस्तुतस्य कथनात्सारूप्यादिनिबन्धनात् ॥