पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२०२

पुटमेतत् सुपुष्टितम्
१८४
काव्यमाला ।

व्यभिचारी रसः स्थायी त्रयो वाच्याः क्रमादिह ॥
लीलावनेऽस्य तन्वङ्गी याता नयनगोचरम् ।
इत्यादावनुभावस्य व्यक्तिः स्यात्कृष्टकल्पिता ॥
उत्कम्पतेतरामेषा मील्यत्यपि लोचने ।
भयानकसमत्वात्स्याद्विभावस्येह कष्टता ॥
व्याघ्रो व्यात्तमुखो वर्त्मन्यास्ते मुग्धे क्व यास्यसि ।
इत्यादौ प्रतिकूलस्य विभावस्य भवेद्ग्रहः ॥
ज्ञेयः पुनः पुनर्दीप्ती रतिप्रलपितादिषु ।
शृङ्गारवर्णने भानुमत्या दुर्योधनस्य च ॥
अकाण्डप्रथनं ज्ञेयं वेणीसंहारनाटके ।
भार्गवेण समं काष्ठां परां वीररसे गते ॥
कङ्कणोन्मोचनायाहं गच्छामीत्युदिते गुरोः ।
रसच्छेदो महावीरचरितेऽकाण्ड इष्यते ॥
अप्रधानस्य बहुधा हयग्रीवस्य वर्णने ।
हयग्रीववधे काव्ये विज्ञेयाङ्गस्य विस्तृतिः ॥
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ।
तत्राङ्ग्यननुसंधानं विद्वद्भिः परिकीर्त्यते ॥
यथा जीमूतवाहस्य शान्तस्याद्भुतमन्तरे ।
निवेश्य शृङ्गाररसो नागानन्दे प्रकाशितः ॥
अदिव्यादिषु दिव्यादिगुणानां परिकीर्तने ।
विद्वद्भिस्तत्र विज्ञातः प्रकृतीनां विपर्ययः ॥
प्रशंसनं कृतं राज्ञा बन्दिना वर्णितस्य यत् ।
तदनङ्गाभिधानं स्यात्सट्टके प्रथमाङ्कके ॥
न दोषः स्वपदेनोक्तावपि संचारिणां क्वचित् ।
श्रुतप्रियागतिर्बाला तथाजनि समुत्सुका ॥
आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
धनुर्धरं त्वामालोक्य पलायन्ते रणात्परे ॥