पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/३२

पुटमेतत् सुपुष्टितम्
१४
काव्यमाला ।

मरालिका रयजगाः शिवातनशरैर्यतिः ॥

भार्गवस्ततः पाथसां निधावक्षिपच्छरं सारविक्रमः ।
तेन तद्गता राक्षसा हताः सोऽपि वारिधिर्दूरतो ययौ ॥ ३४ ॥

श्येनिकेति समुद्दिष्टा रज्रा ल्गौ न यतिः पदि ।

रामभोजनामकं स कंचन क्षोणिभागपालनेऽकरोत्प्रभुम् ।
संततं निजाङ्घ्रिकंजरञ्जकं मञ्जुपुण्यपुञ्जनीरनीरधिम् ॥ ३५ ॥

रञ्जितारजसा लो गो विरामः सायकर्तुभिः ॥

रामभोजराट् धरणिमण्डलं [१]शासति स्म भूसुरकदम्बकम् ।
दानवैभवैर्मधुरभाषितै रञ्जयञ्जनं निजविनीतिभिः ॥ ३६ ॥

न्यभा माणिक्यमालागावृतुभिः सायकैर्यतिः ॥


भूमिं हता बाहुजाः क्षत्रिया यस्यां तथोक्ताम् । प्रविधाय कृत्वा भुवि पुरा कैरपि न कृतं नानुष्ठित भुवनेषु लोकेष्वद्भुतमाश्चर्यकर यत् तत् । कर्तुमिति शेषः । जातु कदाचित् हृदि मनसि अचिन्तयत् । 'चिति स्मृत्याम्' इत्यस्मात्स्वार्थणिजन्ताल्लङ् ॥ ३३ ॥ मरालिकेति । नामकथनम् । रयजगा रगणयगणजगणगुरवः ॥ भार्गव इति । तत आलोचनानन्तरम् । सारः श्रेष्ठो विक्रमः पराक्रमो यस्य तथोक्तो भार्गवो रामः । पाथसां निधौ समुद्रे शरं बाणमक्षिपत् । 'क्षिप प्रेरणे' लङ् । तेन शरेण । कर्तरि करणे वा तृतीया । तद्गताः समुद्रस्थिताः । कर्तरि क्तः । राक्षसा हताः । 'हन हिंसागत्योः' इत्यस्मात्कर्मणि कर्तरि वा क्तः । किं चेत्यप्यर्थः । स प्रविष्टशरो वारिधिः समुद्रे दूरतो दूरात् । 'दूरान्तिकार्थेभ्यः' इत्यादिना प्राप्तायाः पञ्चम्यास्तसिः । ययौ 'या प्रापणे' लिट् ॥ ३४ ॥ श्येनिकेति । नामैतत् । सेनिकेति केचित् । रज्रा रगणजगणरगणाः । ल्गौ लघुगुरू ॥ रामेति । संततं निजस्याङ्घ्रिकंजस्य पादकमलस्य रञ्जकं पूजादिनालंकारिणं मञ्जु च तत्पुण्यं च तेषां पुञ्ज एव नीरं तस्य नीरधिं समुद्रं रामभोजनामक कंचन पुरुषं क्षोणिभागपालने स्वाधिष्ठितभूमिप्रदेशपलने प्रभुं राजानं स भार्गवोऽकरोत् । 'डुकृञ् करणे' लङ् परस्मैपदम् ॥ ३५ ॥ रञ्जितेति । रजसा रगणजगणसगणाः । लो लघुः । गो गुरुः । सायकर्तुभिः पञ्चभिः षड्भिः ॥ रामभोजराडिति । रामभोजनामकराज इत्यर्थः । दानवैभवैर्मधुरभाषितैर्भूसुरकदम्बक निजविनीतिभिः स्वीयविनयैः जनं रञ्जयन् धरणिमण्डलं शासति स्म । स्मयोगाद्भूतार्थे लट् ॥ ३६ ॥ न्यभा इति । न्यभा नगणयगणभगणाः ।


  1. 'गणकार्यमनित्यम्' इत्येतदाश्रित्येदम्. 'शास्ति स स्म' इति पाठ एव केनचित्पर्यावर्तितो भवेत्.