पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/६८

पुटमेतत् सुपुष्टितम्
५०
काव्यमाला ।

षट्पञ्चाशद्द्व्यशीती च सप्तती द्विचतुःपरे ।
इमावुभावुभौ वर्णावेकत्वं भजतो यदि ॥
तदेकनागबन्धस्तु स्रग्धरायां भवेद्ध्रुवम् ।
विदग्धहृदयानन्दश्चतुष्कोणाकृतिर्वरः ॥

 यथा--

श्रीरामो हर्म्यधामा स ततसुमहिमश्रीनतो ज्ञप्रभूतः
सुग्रीवप्रीतये तत्सहजमयममुं भालसत्सायकेन ।
पायान्मां भूभृदीशो वनमिह मिहिरव्रातबाधाद्यभावे
तस्यायन्नाज्ञयायाममशमधिसुखोऽदीनितस्यारिधारा ॥ १ ॥

एवमुत्तरत्रापि नागबन्धभेदेषु यथोचितं लक्षणं परिष्करणीयम् ।

 अष्टदलपद्माकारेणैवनागबन्धो यथा--

मुरस्यारातेरुच्चरणशरजामन्दमधुपं ।
तनो लक्ष्मीवर्यां रचितगुरुपामप्रशमिताम् ।

वित्यर्थः । अत्रोक्तानां संख्येयवाचकत्वमेवेति बोधनायाह-- इमाविति । स्रग्धरायामिति । तन्नामकवृत्त इत्यर्थः । एवमेव नागबन्धमुदाहरति-- श्रीराम इति । स इति तच्छब्दबलाद्य इति लभ्यते । यो रामस्तस्य दशरथस्य आज्ञया इह भूमौ मिहिराणां कर्तृतासबन्धेन सत्कर्मवताम् । सत्कर्मकर्तॄणामिति यावत् । 'मिहिरः पुंसि पूषणि । नित्यसत्कर्मणि धने वृद्धेऽपि' इति वररुचिः । व्रातस्य वृन्दस्य बाधादीनामभावे । विषयसप्तमीयम् । वनमयन् गच्छन् । 'इटकिटकटी गतौ' इत्यत्र गत्यर्थकात्प्रश्लिष्टइधातोः कर्तरि शतृप्रत्ययः । सुग्रीवस्य प्रीतये तत्सहज ते एव सहजो यस्य तममुं बालिनं भया दीप्त्या लसता सायकेन अयाम सयमरहितम् । गमनोन्मुखप्राणमिति यावत् । अत एव अश सुखरहितम् । अकरोदिति शेषः । स तादृशः । हर्म्य धाम यस्य तथोक्तः । तता व्याप्ता सुमहिम्नो माहात्म्यस्य श्रीर्येषां तैर्ब्रह्मादिभिर्नतो नमस्कृतो व इव बुध इव चन्द्र इव वा । 'ज्ञो ब्रह्मबुधचन्द्रेषु' इत्यनेकार्थः । प्रभूत उद्गतः । सौम्य इति यावत् । भूभृतां राज्ञामीशो अधिसुखो अधिकसुखः । अदीनितस्य दीनितो न भवतीत्यदीनितः । 'दीङ् क्षये' इत्यस्मादधिकरणे क्तः । तस्य । मत्तस्येति यावत् । अरिधारा चक्रधारेतिरूपकम् । अयं श्रीरामो मा पायात् । अत्राद्भुतरसस्य रत्यङ्गत्वाद्रसवदलकारः । 'रसो यत्र परस्याङ्ग चेत्तत्र रसवान्मतः' इति लक्षणात् । “म्रम्रैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात्स्रग्धरावृत्तम् । शब्दालंकारस्तु चित्र एव । किं चावाष्टकोणस्थितवर्णैः 'श्रीहयग्रीवेश पाहि' इति प्रतीयते । उत्तरत्रापीति । नागबन्धभेदेष्वित्यर्थः ॥ मुरस्येति । हे तनो देहाभिमा